This page has not been fully proofread.

मिश्रकनीतिः
 
1553
 
लोभंश्चदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
 
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः
सहिया यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ २५ ॥
 
1554
 
मित्रं स्वच्छतया रिपुं नयबलैर्लुग्धं धनैरीश्वरं
कार्येण द्विजनादरेण युवतिं प्रेग्णातितीव्रं स्तवैः ।
बन्धुं क्षान्ततया गुरुं प्रणतिभिर्मूर्ख कथाभिर्बुधं
विद्याभी रसिकं रसेन सकलं शीलेन कुर्याद्रशम् ॥२६॥
 
केषामध्येते ।
 
1555
 
बाजी चारुगतिः शशाङ्कधवलं छत्रं प्रिया पृष्ठतः
प्रोत्चुङ्गस्तनमण्डला विजयिनो भृत्याः पुरः पञ्चषाः ।
ताम्बूलं प्रचुरं सखा सुचतुर: संपद्यते चेत्पथि
प्रास्तत्कटक प्रयाणमितरत्प्राणप्रयागं बुधाः ॥ २७ ॥
 
कस्यापि ।
 
1556
 
जवो हि सप्तेः परमं विभूषणं
त्रपाङ्गनायाः कृशता तपस्त्रिन: ।
 
२४३
 
द्विजस्य विद्या नृपतेरपि क्षमा
पराक्रमः शस्त्रबलोपजीविनाम् । २८ ॥
 
1557
 
इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभं
मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पाकरम् ।
माकन्दं पिकसुन्दरीव तरुणीवात्मेश्वरं प्रोषितं
चेतोवृत्तिरियं मम प्रियसखे त्वां द्रष्टुमुत्कण्ठते ॥ २९ ॥
 
1558
 
पाण्डवनकुलस्य ।
 
नित्यं ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा मानसं
सानन्दाः स्फुटसलकीवनयुतां ध्यायन्ति रेवां गजाः ।