This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

चतुरगमनो जात्योप्यश्वः स गौरिव वाह्यते

गुणवति जने प्रायेणैते गुणाः खलु दूषणम् ॥ १६ ॥
 

1545
 

त्यजति भयमकृतपापं सुमित्रमयशः प्रमादिनं विद्या ।
ही:

ह्रीः
कामिनमलसं श्री: क्रूरं स्त्री दुर्जनं लोकः ॥ १७ ॥
 

1546
 
२४२
 

द्वाविमौ पुरुषौ लोके परप्रत्ययकारकौ ।
 

स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥ १८ ॥
 

1547
 

द्वाविमौ पुरुषौ लोके सुखिनौ न कदाचन ।
 

यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ १९ ॥
 

1548
 
हा

द्वा
विमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः ।
 

प्रभुश्व क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ २० ॥
 

1549
 

द्वाविमौ पुरुषौ लोके शिरःशूलकरौ परौ ।

गृहस्थो यो निरारम्भो यतिश्च सपरिग्रहः ॥ २१ ॥
 

1550
 
दा

द्वा
विमौ पुरुष लोके न भूतोतौ न भविष्यतः ।

प्रार्थितो यश्च कुरुते यश्च नार्थयते परम् ॥ २२ ॥
 
1551
 
शावे

1551
द्वावि
मावम्भसि क्षेप्योयौ गाढं बचाद्ध्वा गले शिलाम् ।

धनिनं चाप्रदातारं दरिद्रं चातपस्विनम् ॥ २३ ॥
 

1552
 

सन्तश्चेदमृतेन किं यदि खलस्तत्कालकूटेन किं

दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः ।

किं कर्पूरशलाकया यदि दृशः पन्थानमेति प्रिया

संसारेपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥ २४ ॥