This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
चतुरगमनो जात्योप्यश्वः स गौरिव वाह्यते
गुणवति जने प्रायेणैते गुणाः खलु दूषणम् ॥ १६ ॥
 
1545
 
त्यजति भयमकृतपापं सुमित्रमयशः प्रमादिनं विद्या ।
ही: कामिनमलसं श्री: क्रूरं स्त्री दुर्जनं लोकः ॥ १७ ॥
 
1546
 
२४२
 
द्वाविमौ पुरुषौ लोके परप्रत्ययकारकौ ।
 
स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥ १८ ॥
 
1547
 
द्वाविमौ पुरुषौ लोके सुखिनौ न कदाचन ।
 
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ १९ ॥
 
1548
 
हाविमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः ।
 
प्रभुश्व क्षमया युक्तो दरिद्रव प्रदानवान् ॥ २० ॥
 
1549
 
द्वाविमौ पुरुषौ लोके शिरःशूलकरौ परौ ।
गृहस्थो यो निरारम्भो यतिश्च सपरिग्रहः ॥ २१ ॥
 
1550
 
दाविमौ पुरुष लोके न भूतो न भविष्यतः ।
प्रार्थितो यश्च कुरुते यश्च नार्थयते परम् ॥ २२ ॥
 
1551
 
शावेमावम्भसि क्षेप्यो गाढं बचा गले शिलाम् ।
धनिनं चाप्रदातारं दरिद्रं चातपस्विनम् ॥ २३ ॥
 
1552
 
सन्तश्चेदमृतेन किं यदि खलस्तत्कालकूटेन किं
दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः ।
किं कर्पूरशलाकया यदि दृशः पन्थानमेति प्रिया
संसारेपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥ २४ ॥