This page has been fully proofread once and needs a second look.

मिश्रकनीतिः
 

1525
 

श्रुतिस्मृत्युक्तमाचारं न त्यजेत्साधुसेवितम् ।

दैत्यानां श्रीवियोगोभूत्सत्यधर्मक्रियामुचाम् ॥ १०६ ॥
 

1526
 

न कुर्यादभिचारोग्रवश्यादिकुहकक्रियाम् ।

लक्ष्मणेनेन्द्रजित्कृत्याभिचारसमये हतः ॥ १०७ ॥
 

1527
 

व्याकुलोपि विपत्पातैः स्मरेद्विष्णुं सदा हृदि ।

शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ १०८ ॥

एते क्षेमेन्द्रस्य ।
 

1528
 

संदेहो वैष्णवे मार्गे न कार्योन्यैः कुदर्शनैः ।
 

रामप्रभावमद्यापि यतोब्धौ श्य सेतुना ॥ १०९ ॥

शार्ङ्गधरस्य ।
 

----------------
अथ मिश्रकनीतिः ॥ ७७ ॥
 
९३९
 

1529
 

मणि: शाणोल्लीढ: समरविजयी हेतिनिहतो
 

मदक्षीणो नागः शरदि सरिदाश्यानपुलिना ।
 

कलाशेषश्चन्द्र: सुरतमृदिता बालवनिता

तनिम्मा शोभन्ते गलितविभवाश्चार्थिषु जनाः ॥ १ ॥
 

1530
 

शशी दिवसधूसरो गलितयौवना कामिनी

सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।

प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
 

नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ २ ॥

एतौ भर्तृहरेः ।
 
:
 

1531
 

अविधेयो भूभृत्यजनः शंठानि मित्राण्यदायकः स्वामी ।

अविनयवती च भार्या मस्तकथूशूलानि चत्वारि ॥ ३ ॥