शार्ङ्गधरपद्धतिः /254
This page has not been fully proofread.
मिश्रकनीतिः
1525
श्रुतिस्मृत्युक्तमाचारं न त्यजेत्साधुसेवितम् ।
दैत्यानां श्रीवियोगोभूत्सत्यधर्मक्रियामुचाम् ॥ १०६ ॥
1526
न कुर्यादभिचारोग्रवश्यादिकुहकक्रियाम् ।
लक्ष्मणेनेन्द्रजित्कृत्याभिचारसमये हतः ॥ १०७ ॥
1527
व्याकुलोपि विपत्पातैः स्मरेद्वष्णुं सदा हृदि ।
शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ १०८ ॥
एते क्षेमेन्द्रस्य ।
1528
संदेहो वैष्णवे मार्गे न कार्योन्यैः कुदर्शनैः ।
रामप्रभावमद्यापि यतोब्धौ पदय सेतुना ॥ १०९ ॥
शार्ङ्गधरस्य ।
अथ मिश्रकनीतिः ॥ ७७ ॥
९३९
1529
मणि: शाणोल्लीढ: समरविजयी हेतिनिहतो
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना ।
कलाशेषश्चन्द्र सुरतमृदिता बालवनिता
तनिम्मा शोभन्ते गलितविभवाश्चार्थिषु जनाः ॥ १ ॥
1530
शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ २ ॥
एतौ भर्टहरेः ।
:
1531
अविधेयो भूत्यजनः शंठानि मित्राण्यदायकः स्वामी ।
अविनयवती च भार्या मस्तकथूलानि चत्वारि ॥ ३ ॥