This page has been fully proofread once and needs a second look.

२३८
 
शार्ङ्गधरपद्धतिः
 

1516
 

तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् ।

विश्वामित्रोपि सोत्कण्ठः कण्डेठे जग्राह मेनकाम् ॥ ९७ ॥
 

1517
 

भक्तं रक्तं सदासक्तं निर्दोषं न परित्यजेत् ।

रामस्त्यकात्यक्त्त्वा सतीं सीतां शोकशल्याकुलोभवत् ॥ ९८ ॥
 

1518
 

न क्रोधयातुधानस्य भीमामिच्छेद्विधेयताम् ।

निपीतभ्रातृरुधिरः प्राप निन्दां वृकोदरः ॥ ९९ ॥
 

1519
 

वर्जयेदिन्द्रियजये निर्जने जननीमपि ।
 

पुत्रीकृतोपि प्रद्युम्नः कामित: शंबरस्त्रिया ॥ १०० ॥
 

1520
 

प्रभुप्रसादे विश्वासं न कुर्यात्स्वप्नसंनिभे ।
 

नन्देन मन्त्री निक्षिप्तः शकटालोपि बन्धने ॥ १०१ ॥
 

1521
 

न लोकायतवादेन नास्तिकः स्याददैवतः ।

हरिर्हिरण्यकशिपुं जघान स्तम्भनिर्गतः ॥ १०२ ॥
 

1522
 

अत्युचत न्नतपदारूढः पूज्यान्चैनैवापमानयेत् ।
 

नहुषः शक्रतां प्राप्य च्युतोगस्त्यावमाननात् ॥ १०३ ॥
 

1523
 

हितोपदेशं शृणुयात्कुर्वीत यथोदितम् ।

विदुरोक्तमकृत्वाभूत्कौरवः शोकशल्यभाक् ॥ १०४ ॥
 

1524
 

न पुत्रायत्त मैश्वर्यं कुर्यादार्यः कथंचन ।

पुत्रार्पित प्रभुत्वोभूद्धृतराष्ट्रस्तृणोपमः ॥ १०५ ॥