This page has not been fully proofread.

नीतिः
 
1507
 
न मध्यव्यसनैः क्षीबः कुर्यादेतालविप्लवम् ।
 
वृष्णयो हि ययुः क्षीबास्तृणमहरणैः क्षयम् ॥ ८८ ॥
 
1508
 
दानं सवातिं दद्यान्न पश्चात्तापवान्भवेत् ।
बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये ॥ ८९ ॥
 
1509
 
ब्राह्मणानावमन्येत ब्रह्मशापो हि दुःसहः ।
तक्षकाम गतः कोपाड्राह्मणस्य परीक्षितः ॥ ९० ॥
 
1510
 
दम्भारम्भोद्धुरं कर्म न चरेदन्तनिष्फलम् ।
ब्राह्मण्यदम्भलब्धास्त्रविद्या कर्णस्य निष्फला ॥ ११ ॥
 
1511
 
न स्त्रीजितः प्रमूढः स्याद्गाढरागवशीकृतः ।
पुत्रशोकादशरथो जीवं जायाजितोत्यजत् ॥ ९२ ॥
 
1512
 
क्षिपेद्वाक्यशरान्घोरान्न पारुष्यविषहुतान् ।
वाक्पारुण्यरुषां चक्रे भीमः कुरुकुलक्षयम् ॥ ९३ ॥
 
1513
 
परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् ।
पैशुन्येन गतौ राहोचन्द्राकौ भक्षणीयताम् ॥ ९४ ॥
 
२३७
 
1514
 
कुर्यान्त्रीचजनाभ्यस्तां न याचां मानहारिणीम् ।
बलिप्रार्थनया प्राप लघुतां पुरुषोत्तमः । ९५ ॥
 
1515
 
बकैः क्रूरतरैर्लुब्धैर्न कुर्यात्प्रीतिसंगतिम् ।
वसिष्ठस्याहरद्धेनुं विश्वामित्रो निमन्त्रितः ॥ ९६ ॥