This page has been fully proofread once and needs a second look.

नीतिः
 

1489
 

कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः ।
 

तमेव चोपजीव्येरन्यथैव पितरं तथा ॥ ७० ॥
 

1490
 

विभागेन समानास्ते पितुर्द्रव्यस्य केवलम् ।

तयोः पूर्वतरो यस्तु गुरुः स हि निगद्यते ॥ ७१ ॥
 
1491
 

1491
ऋणशेषश्चामिग्निशेष: शत्रुशेषस्तथैव च ।
 

पुनः पुनः प्रवर्तन्ते तस्माच्छेषं न कारयेत् ॥ ७२॥
 

1492
 

कुभोज्येन दिनं नष्टं कुकलत्रेण शर्वरी ।

कुपुत्रेण कुलं नष्टं तन्नष्टं यन्न दीयते ॥ ७३ ॥
 

1493
 

चतुरः सृजता पूर्वमुपायांस्तेन वेधसा ।
 

न सृष्टः पञ्चमः कोपि गृह्यन्ते येन योषितः ॥ ७४ ॥
 
1494
 

1494
स्त्रियस्तु यः कामयते संनिकर्षं च गच्छति ॥

ईषत्प्रकुरुते सेवां तं तमिच्छन्ति योषितः ॥ ७५ ॥
 

1495
 

यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् ।

हिद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥ ७६ ॥
 

1496
 

बर्रश्च तपस्वी स्याच्छूरश्चाप्यकृतव्रणः ।
 

मद्यपा स्त्री सती राजन्निति न श्रद्दधाम्यहम् ॥ ७७ ॥
 

1497
 

जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् ।
 

हृद्गतं चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥ ७८ ॥
 
२३५