This page has not been fully proofread.

नीतिः
 
1489
 
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः ।
 
तमेव चोपजीव्येरन्यथैव पितरं तथा ॥ ७० ॥
 
1490
 
विभागेन समानास्ते पितुर्द्रव्यस्य केवलम् ।
तयोः पूर्वतरो यस्तु गुरुः स हि निगद्यते ॥ ७१ ॥
 
1491
 
ऋणशेषश्चामिशेष: शत्रुशेषस्तथैव च ।
 
पुनः पुनः प्रवर्तन्ते तस्माच्छेषं न कारयेत् ॥ ७२॥
 
1492
 
कुभोज्येन दिनं नष्टं कुकलत्रेण शर्वरी ।
कुपुत्रेण कुलं नष्टं तन्नष्टं यन्न दीयते ॥ ७३ ॥
 
1493
 
चतुरः सृजता पूर्वमुपायांस्तेन वेधसा ।
 
न सृष्टः पञ्चमः कोपि गृह्यन्ते येन योषितः ॥ ७४ ॥
 
1494
 
स्त्रियस्तु यः कामयते संनिकर्ष च गच्छति ॥
ईषत्प्रकुरुते सेवां तं तमिच्छन्ति योषितः ॥ ७५ ॥
 
1495
 
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् ।
उहिजेत तदैवास्याः सर्पाद्वेइमगतादिव ॥ ७६ ॥
 
1496
 
बर्वरश्च तपस्वी स्याच्छूरचाप्यकृतव्रणः ।
 
मद्यपा स्त्री सती राजन्निति न श्रद्दधाम्यहम् ॥ ७७ ॥
 
1497
 
जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् ।
 
हृतं चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥ ७८ ॥
 
२३५