This page has been fully proofread once and needs a second look.

१० शार्ङ्गधरपद्धतिः
 
आपादमा मुकुटमाकलितामृतौघ-
माकारमाकलयताममुमन्तरं नः ॥ १४ ॥

71

पुञ्जीभूतं प्रेम गोपाङ्गनानां
मूर्तीभूतं भागधेयं यदूनाम् ।
एकीभूतं गुप्तवित्तं श्रुतीनां
श्यामीभूतं ब्रह्म मे संनिधत्ताम् ॥ १५ ॥
एतौ राघवचैतन्यश्रीचरणानाम्

72

परमिममुपदेशमाद्रियध्वं
निगमवनेषु नितान्तखेदखिन्नाः ।
विचिनुत भवनेषु बल्लवीना-
मुपनिषदर्थमुलूखले निबद्धम् ॥ १६ ॥

73

नवनीलमेघरुचिरः परः पुमा-
नवनीमवाप्य धृतगोपविग्रहः ।
नवनीय कीर्तिरमरैरपि स्वयं
नवनीतभिक्षुरघुना स चिन्त्यते ॥ १७ ॥
एतौ बिल्वमङ्गलश्रीचरणानाम् ।

74

क्व यासि खलु चौरिके प्रमुषितं स्फुटं दृश्यते
द्वितीयमिह मामकं वहसि कन्दुकं कञ्चुके ।
त्यजेति नवगोपिकाकुचयुगं प्रमथ्नन्बला-
ल्लसत्पुलकपञ्जरो जयति गोकुले केशवः ॥ १८ ॥
दीपकस्य ।

75

दृक्पात: कमलासनेस्तु भवतो ज्ञानं मनाङ्गागमारुते
श्रीकण्ठोयमितः सुरानिति नतांस्तार्क्ष्येण विज्ञापितः ।