This page has been fully proofread once and needs a second look.

२३४
 
शार्ङ्गधरपद्धतिः
 

1480
 

पन्नगाः सन्ति बहुशो भेकभक्षणतत्पराः ।

स एकः शेषनागो हि भूभारधरणक्षमः ॥ ६१॥
 
1481
 

1481
यज्जीव्यते क्षणमपि प्रथितैर्मनुष्यै-

र्
विज्ञान विक्रमयशोभिरभग्नमानम् ।

तन्नाम जीवितफलं प्रवदन्ति सन्तः
 

काकोपि जीवति चिरं च बलिं च भुङ्क्ते ॥ ६२॥
 

1482
 

किं तेन जातु जातेन मातुर्यौवनहारिणा ।
 

आरोहति न यः स्वस्य वंशस्यायेग्रे ध्वजो यथा ॥ ६३ ॥
 

1483
 

अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।
 

यतस्तौ स्वल्पदुःखाय यावज्जीचंवं जडो दहेत् ॥ ६४ ॥
 
1484
 

1484
न पुत्रः पितरं द्वेष्टि स्वभावात्स्वस्य रेतसः ।

यः पुत्रः पितरं द्वेष्टिं तं विद्यादन्यरेतसम् ॥ ६५ ॥
 

1485
 

किं कुलेन विशालेन शील मेत्रावात्र कारणम् ।

कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ६६ ॥
 

1486
 

न पुत्रत्वेन पूज्यन्ते गुणैरासाद्यते पदम् ।

रवेर्व्यापारमादत्ते प्रदीपो न पुनः शनिः ॥ ६७ ॥
 

1487
 

उत्तमा आत्मना ख्याताः पितुः ख्याताश्च मध्यमाः ।

अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः ॥ ६८ ॥
 
1488
 

1488
ज्येष्ठो भ्राता पितृसमो मृते पितरि सर्वदा ।
 
स श्ले

स ह्ये
षां वृत्तिदाता स्यात्स घेह्येतान्परिपालयेत् ॥ ६९ ॥