This page has not been fully proofread.

२३४
 
शार्ङ्गधरपद्धतिः
 
1480
 
पन्नगाः सन्ति बहुशो भेकभक्षणतत्पराः ।
स एकः शेषनागो हि भूभारधरणक्षमः ॥ ६१॥
 
1481
 
यज्जीव्यते क्षणमपि प्रथितैर्मनुष्यै-
विज्ञान विक्रमयशोभिरभनमानम् ।
तन्नाम जीवितफलं प्रवदन्ति सन्तः
 
काकोपि जीवति चिरं च बलिं च भुते ॥ ६२॥
 
1482
 
किं तेन जातु जातेन मातुर्यौवनहारिणा ।
 
आरोहति न यः स्वस्य वंशस्याये ध्वजो यथा ॥ ६३ ॥
 
1483
 
अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।
 
यतस्तौ स्वल्पदुःखाय यावज्जीचं जडो दहेत् ॥ ६४ ॥
 
1484
 
न पुत्रः पितरं द्वेष्टि स्वभावात्स्वस्य रेतसः ।
यः पुत्रः पितरं द्वेष्टिं तं विद्यादन्यरेतसम् ॥ ६५ ॥
 
1485
 
किं कुलेन विशालेन शील मेत्रात्र कारणम् ।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ६६ ॥
 
1486
 
न पुत्रत्वेन पूज्यन्ते गुणैरासाद्यते पदम् ।
रवेर्व्यापारमादत्ते प्रदीपो न पुनः शनिः ॥ ६७ ॥
 
1487
 
उत्तमा आत्मना ख्याताः पितुः ख्याताश्च मध्यमाः ।
अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः ॥ ६८ ॥
 
1488
 
ज्येष्ठो भ्राता पितृसमो मृते पितरि सर्वदा ।
 
स श्लेषां वृत्तिदाता स्यात्स घेतान्परिपालयेत् ॥ ६९ ॥