This page has been fully proofread once and needs a second look.

16
 
नीतिः
 
1471
 

1471
दर्शितानि कलत्राणि गृहे मुभुक्तमशङ्गितम् ।
कितम् ।
कथितानि रहस्यानि सौहृदं किमतः परम् ॥ ५२॥
 

1472
 

न मातरि न दारेषु न सोदर्येषु बन्धुषु ।

विश्रम्भस्तादृशः पुपुंसां यादृङ्गिग्मित्रे निरन्तरे ॥५३॥
 

1473
 

शोकारावितिभयत्राणं प्रीतिविश्रम्भमाजनम् ।

केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ५४ ॥
 
1474
 

1474
दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते ।

भिन्नश्लिष्टा तु या प्रीतिः सा दुःखैकप्रदायिनी ॥ ५५ ॥
 

1475
 

ययोरेव समं वित्तं ययोरेव समं कुलम् !

तयोर्मैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ ५६ ॥
 

1476
 

चिबुके यस्य लोमानि न वक्षसि न गल्लयोः ।

तेन सख्यं न कुर्वीत यदि निर्मानुषं जगत् ॥ ५७ ॥
 
1477
 

1477
दाने तपसि शौर्ये च यस्य न प्रथितं यशः ।

विद्यायामर्थलाभे वा तस्य जन्म निरर्थकम् ॥ ५८ ॥
 

1478
 

परोपकारशून्यस्य धिङ्गधिंग्मनुष्यस्य जीवितम् ।
 

जीवन्तु पशवो येषां चर्माप्युपकरिष्यति ॥ ५९ ॥
 

1479
 

तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्ति च ।

न खादन्ति न मेहन्ति किं ग्रामपशवोपरे ॥ ६० ॥