This page has not been fully proofread.

16
 
नीतिः
 
1471
 
दर्शितानि कलत्राणि गृहे मुक्तमशङ्गितम् ।
कथितानि रहस्यानि सौहदं किमतः परम् ॥ ५२॥
 
1472
 
न मातरि न दारेषु न सोदर्येषु बन्धुषु ।
विश्रम्भस्तादृशः पुसां यादृङ्गित्रे निरन्तरे ॥५३॥
 
1473
 
शोकाराविभयत्राणं प्रीतिविश्रम्भमाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ५४ ॥
 
1474
 
दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते ।
भिन्नलिष्टा तु या प्रीतिः सा दुःखैकप्रदायिनी ॥ ५५ ॥
 
1475
 
ययोरेव समं वित्तं ययोरेव समं कुलम् !
तयोमैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ ५६ ॥
 
1476
 
चिबुके यस्य लोमानि न वक्षसि न गल्लयोः ।
तेन सख्यं न कुर्वीत यदि निर्मानुषं जगत् ॥ ५७ ॥
 
1477
 
दाने तपसि शौर्ये च यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे वा तस्य जन्म निरर्थकम् ॥ ५८ ॥
 
1478
 
परोपकारशून्यस्य धिङ्गनुष्यस्य जीवितम् ।
 
जीवन्तु पशवो येषां चर्माप्युपकरिष्यति ॥ ५९ ॥
 
1479
 
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्ति च ।
न खादन्ति न मेहन्ति किं ग्रामपशवोपरे ॥ ६० ॥