This page has been fully proofread once and needs a second look.

२३२
 
शार्ङ्गधरपद्धतिः
 

1462
 

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ४३ ॥
 

1463
 

चलत्येकेन पाढेदेन तिष्ठत्येकेन पण्डितः ।
 

नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ ४४ ॥
 
1464
 

1464
न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् ।
 

यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥ ४५ ॥
 

1465
 

पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ।

धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ॥ ४६ ॥
 
1466
 

1466
अनायके न वस्तव्यं न वसेद्बहुनायके ।
 

स्त्रीनायके न वस्तव्यं न वसेवाद्बालनायके ॥ ४७ ॥
 

1467
 

सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः ।
 

सर्वे महत्त्वमिच्छन्ति तद्वृन्दमवसीदति ॥ ४८ ॥
 

1468
 

घटं भिन्द्यात्पटं छिन्द्यात्कुर्यात्किंचिदथाद्भुतम् ।

येन केनाप्युपायेन नाविज्ञात: पुरे वसेत् ॥ ४९ ॥
 

1469
 

विवादो धनसंबन्धो याचनं स्त्रीषु संगतिः ।

आदानमग्रस्थायित्वं मैत्रीभङ्गस्य हेतवः ॥५० ॥
 

1470
 

नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।
 

दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥ ५१ ॥