This page has not been fully proofread.

२३२
 
शार्ङ्गधरपद्धतिः
 
1462
 
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ४३ ॥
 
1463
 
चलत्येकेन पाढेन तिष्ठत्येकेन पण्डितः ।
 
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ ४४ ॥
 
1464
 
न गणस्यायतो गच्छेत्स कार्ये समं फलम् ।
 
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥ ४५ ॥
 
1465
 
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ।
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ॥ ४६ ॥
 
1466
 
अनायके न वस्तव्यं न वसेहुनायके ।
 
स्त्रीनायके न वस्तव्यं न वसेवालनायके ॥ ४७ ॥
 
1467
 
सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः ।
 
सर्वे महत्त्वमिच्छन्ति तन्दमवसीदति ॥ ४८ ॥
 
1468
 
घटं भिन्द्यात्पटं छिन्द्यात्कुर्यात्किंचिदथाद्भुतम् ।
येन केनाप्युपायेन नाविज्ञात: पुरे वसेत् ॥ ४९ ॥
 
1469
 
• विवादो धनसंबन्धो याचनं स्त्रीषु संगतिः ।
आदानमग्रस्थायित्वं मैत्रीभङ्गस्य हेतवः ॥५० ॥
 
1470
 
नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।
 
दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥ ५१ ॥