This page has been fully proofread once and needs a second look.

२३०
 
शार्ङ्गधरपद्धतिः
 
1444
 

 
1444
स्त्री विनश्यति रूपेण ब्राह्मणो राजसेवया ।

गावो दूरप्रचारेण हिरण्यं लाभलिप्सया ॥ २५ ॥
 

1445
 

अतिदानाद्बलिर्द्धो नष्टो मानात्सुयोधनः ।
 

विनष्टो रावणो लौल्यादति सर्वत्र वर्जयेत् ॥ २६ ॥
 

1446
 

धनमस्तीति वाणिज्यं किंचिदस्तीति कर्षणम् ।

सेवा न किंचिदस्तीति नामस्मीति साहसम् ॥ २७ ॥
 

1447
 

स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजंगमः ।

हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥ २८ ॥
 

1448
 

जानन्ति पशवो गन्धाद्वेदाज्जानन्ति वाडवाः ।

चराज्जानन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ २९ ॥
 

1449
 
सपक्षी

सपक्षो
लभते काको वृक्षस्य विविधं फलम् ॥

पक्षहीनो मृगेन्द्रोपि भूमिसंस्थो निरीक्षते ॥ ३० ॥
 

1450
 

अलब्ध्वापि फलं राज्ञः संश्रिता यान्ति संपदाम् ।

महाद्रुमसमीपस्थं पश्य नीलं वनस्पतिम् ॥ ३१ ॥
 

1451
 
सर्व

सर्वं
सहा ये ॠजवः प्रतिज्ञातार्थपालकाः ।

परोपकारिणः सेव्या निर्धना अपि ते नराः ॥ ३२ ॥
 

1452
 

युक्तियुक्तं प्रगृह्णीयाद्वालादपि विचक्षणः ।
 

रवेरविषये वस्तु किं न दीपः प्रकाशयेत् ॥ ३३ ॥