This page has not been fully proofread.

२३०
 
शार्ङ्गधरपद्धतिः
 
1444
 
स्त्री विनश्यति रूपेण ब्राह्मणो राजसेवया ।
गावो दूरप्रचारेण हिरण्यं लाभलिप्सया ॥ २५ ॥
 
1445
 
अतिदानाइलिर्वद्धो नष्टो मानात्सुयोधनः ।
 
विनष्टो रावणो लौल्यादति सर्वत्र वर्जयेत् ॥ २६ ॥
 
1446
 
धनमस्तीति वाणिज्यं किंचिदस्तीति कर्षणम् ।
सेवा न किंचिदस्तीति नामस्मीति साहसम् ॥ २७ ॥
 
1447
 
स्पृशन्नपि गजो हन्ति जिन्नपि भुजंगमः ।
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥ २८ ॥
 
1448
 
जानन्ति पशवो गन्धाद्वेदाज्जानन्ति वाडवाः ।
चराज्जानन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ २९ ॥
 
1449
 
सपक्षी लभते काको वृक्षस्य विविधं फलम् ॥
पक्षहीनो मृगेन्द्रोपि भूमिसंस्थो निरीक्षते ॥ ३० ॥
 
1450
 
अलब्ध्वापि फलं राज्ञः संश्रिता यान्ति संपदाम् ।
महाद्रुमसमीपस्थं पश्य नीलं वनस्पतिम् ॥ ३१ ॥
 
1451
 
सर्वसहा ये ॠजवः प्रतिज्ञातार्थपालकाः ।
परोपकारिणः सेव्या निर्धना अपि ते नराः ॥ ३२ ॥
 
1452
 
युक्तियुक्तं प्रगृह्णीयाद्वालादपि विचक्षणः ।
 
रवेरविषये वस्तु किं न दीपः प्रकाशयेत् ॥ ३३ ॥