This page has been fully proofread once and needs a second look.

२२८
 
शार्ङ्गधरपद्धतिः
 

1427
 

वाङ्माधुर्यान्नान्यदस्ति प्रियत्वं

वाक्पारुण्ष्याच्चोपकारोपि नेट: ।
ष्टः।
किं तद्र्व्यं कोकिलेनोपनीतं
 

को वा लोके गर्दभस्यापराधः ॥ ८ ॥
 

1428
 

यस्य चाप्रियमन्विच्छेत्तस्य कुर्यात्सदा प्रियम् ।

व्याधा मृगवधं कर्तुं गीतं गायन्ति सुस्वरम् ॥ ९ ॥
 

429
 

प्र
हरिष्यन्मिप्रियं ब्रूयात्महप्रहृत्यापि प्रियोत्तरम् ।
 

अपि चास्य शिरश्छिच्यात्त्वा रुद्याच्छोचेत्तथापि च ॥ १० ॥
 

1430
 

अनागतविधातारमप्रमत्तमकोपनम् ।
 

स्थिरारम्भमदीनं च नरं श्रीरुपतिष्ठते ॥ ११ ॥
 

1431
 

सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते ।

प्रारम्भे कृतबुद्धीनां सिद्धिरव्यभिचारिणी ॥ १२ ॥
 

1432
 

नालसाः प्रामुप्नुवन्त्यर्थान्न शठा न च मायिनः ।
 

न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः ॥ १३ ॥
 
11

14
33
 

नोद न्वानार्थर्थितामेति स चाम्भोभिः प्रपूर्यते ।
 

आत्मा तु पात्रतां नेयः पात्रमायान्ति संपदः ॥ १४ ॥
 

1434
 

सर्वथा स्वहितमाचरणीयं
 

किं करिष्यति जनो बहुजल्पः ।

विद्यते नहि स कश्चिदुपायः

सर्वलोकपरितोषकरो यः ॥ १५ ॥