This page has not been fully proofread.

२२८
 
शार्ङ्गधरपद्धतिः
 
1427
 
वाङ्माधुर्यान्नान्यदस्ति प्रियत्वं
वाक्पारुण्याच्चोपकारोपि नेट: ।
किं तद्र्व्यं कोकिलेनोपनीतं
 
को वा लोके गर्दभस्यापराधः ॥ ८ ॥
 
1428
 
यस्य चाप्रियमन्विच्छेत्तस्य कुर्यात्सदा प्रियम् ।
व्याधा मृगवधं कर्तुं गीतं गायन्ति सुस्वरम् ॥ ९ ॥
 
429
 
महरिष्यन्मियं ब्रूयात्महत्यापि प्रियोत्तरम् ।
 
अपि चास्य शिरश्छिच्या रुद्याच्छोचेत्तथापि च ॥ १० ॥
 
1430
 
अनागतविधातारमतमत्तमकोपनम् ।
 
स्थिरारम्भमदीनं च नरं श्रीरुपतिष्ठते ॥ ११ ॥
 
1431
 
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते ।
प्रारम्भे कृतबुद्धीनां सिद्धिरव्यभिचारिणी ॥ १२ ॥
 
1432
 
नालसाः प्रामुवन्त्यर्थान्न शठा न च मायिनः ।
 
न च लोकरवाता न च शश्वतीक्षिणः ॥ १३ ॥
 
1133
 
नोद न्वानार्थतामेति स चाम्भोभिः प्रपूर्यते ।
 
आत्मा तु पात्रतां नेयः पात्रमायान्ति संपदः ॥ १४ ॥
 
1434
 
सर्वथा स्वहितमाचरणीयं
 
किं करिष्यति जनो बहुजल्पः ।
विद्यते नहि स कश्चिदुपायः
सर्वलोकपरितोषकरो यः ॥ १५ ॥