This page has not been fully proofread.

२२६
 
शार्ङ्गधरपद्धतिः
 
1412
 
वर्षानिलरजोधर्महिमादीनां निवारणम् !
राज्यलक्ष्म्या गृहं धन्यं चक्षुष्यं छत्रधारणम् ॥ १३२ ॥
 
1413
 
चामरं श्रीकरं दिव्यं राजशोभाकर परम् ।
सिंहासनं सुखैश्वर्यकरं लोकानुरञ्जनम् ॥ १३३ ॥
 
1414
 
सुमनोवररत्नानां धारणं दिव्यरूपकृत् ।
पापालक्ष्मीप्रशमनं चन्दनाद्यनुलेपनम् ॥ १३४ ॥
 
1415
 
स्नानं नाम मनःप्रसादजननं दुःस्त्रभविध्वंसनं
शौचस्यायतनं मलपकपणं संवर्धनं तेजसः ।
रूपोद्द्योतकरं गदप्रशमनं कामस्य चाप्यायचं
नारीणां च मनोहरां श्रमहरं लाने दशैते गुणाः ॥१३५ ॥
 
1416
 
ताम्बूलं मुखरोगनाशनिपुणं संवर्धनं तेजसो
नित्यं जाठरवह्निवृद्धिजननं दुर्गन्धोपापहम् ।
ववत्रालंकरणं प्रहर्पजननं विज्ञपाये रणे
कामस्यायतनं समुद्भवकरं लक्ष्म्याः सुखस्यास्पदम् ॥१३६॥
 
1417
 
देवतातिथिविप्राणां पूजनं पापनाशनम् ।
 
लोकत्रयेपि शुभकहानं धर्मयशस्करम् ॥ १३७ ॥
 
1418
 
माणिक्यं तरगेस्तथातिविमलं मुक्ताफलं शीतगो-
महेयस्य च विद्रुमं मरकतं सौम्यस्य रागोत्तमम् ।
देवेज्यस्य च पुष्परागमुदितं शुक्रस्य वज्रं शने-
नीलं निर्मलमन्ययोध गढ़िते गोमेदवैदूर्यके ॥ १३८ ॥