2023-04-11 16:11:45 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
उत्सर्पिकङ्कणफणीन्द्रफणार्पणेन
पूर्णोञ्जलिर्जयति बालमृगाङ्कमौलेः ॥ ९ ॥
कस्यापि ।
उच्चैरुत्तालखेलद्भुजवनपवनोद्धूतशैलौघपात-
स्फारोदञ्चत्पयोधिप्रकटितमुकुटस्वर्धुनीसंगमानि ।
जीयासुस्ताण्डवानि स्फुटविकटजटाकोटिसंघट्टभूरि-
भ्रश्यन्नक्षत्रचक्रव्यवसितसुमनोवृष्टिपातानि शंभोः ॥ १० ॥
भेरी
मन्दारमालालुलितालकायै
कपालमालाङ्कितशेखराय ।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय ॥ ११ ॥
कस्यापि ।
हर कण्ठग्रहानन्दमीलिताक्षीं नमाम्युमाम् ।
कालकूटविषस्पर्शजातमूर्छागमामिव ॥ १२ ॥
बाणभट्टस्य ।
मेधैर्
र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥१३॥
जयदेवस्य ।
आनन्दमादधतमायतलोचनाना-
मानीलमावलितकंधरमात्तवंशम् ।