This page has not been fully proofread.

नमस्कृति:
 
उत्सर्पिकङ्कणफणीन्द्रफणार्पणेन
पूर्णोञ्जलिर्जयति बालमृगाङ्कमौलेः ॥ ९ ॥
 
उच्चैरुत्तालखेलद्भुजवनपत्रनोद्धूत शैलौघपात-
स्फारोदञ्चत्पयोधिप्रकटितमुकुटस्वर्धुनीसंगमानि ।
 
66
 
कस्यापि ।
 
जीयासुस्ताण्डवानि स्फुटविकटजटाकोटिसंघट्टभूरि-
भ्रश्यनक्षत्रचक्रव्यवसितसुमनोवृष्टिपातानि शंभोः ॥ १० ॥
 
भेरीमांकारस्य ।
 
67
 
मन्दार मालालुलितालकायै
कपालमालाङ्कितशेखराय ।
दिव्याम्बरायै च दिगम्बराय
 
नमः शिवायै च नमः शिवाय ॥ ११ ॥
 
कस्यापि ।
 
अथ गौरी ।
 
68
 
हर कण्ठग्रहानन्द मीलिताक्षीं नमाम्युमाम् ।
कालकूट विष स्पर्श जातमूर्छागमामिव ॥ १२ ॥
 
अथ कृष्णः ।
 
69
 
बाणभट्टस्य ।
 

 
मेधैर्मेंदुर मम्बरं वनभुवः श्यामास्तमालद्रुमै -
र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रु मं
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥१३॥
 
जयदेवस्य ।
 
70
 
आनन्दमादधतमायतलोचनाना-
मानीलमावलितकंधर मात्तवंशम् ।