This page has been fully proofread once and needs a second look.

२२४
 
शार्ङ्गधरपद्धतिः
 

1396
 

संगतिः श्रेयसी राजन्विगुणेष्वपि बन्धुषु ।

तुवैषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ ११६ ॥
 

1397
 

मृदो: परिभवो नित्यं वैरं तीक्ष्णस्य नित्यशः ।

उत्सृज्यैतत्र्द्द्वयं तस्मान्मध्यां वृत्तितिं समाश्रयेत् ॥ ११७ ॥
 

1398
 

अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् ।

नहि सर्वत्र पाण्डित्वं मुसुलभं पुरुषे क्वचित् ॥ ११८ ॥
 

1399
 

तेजस्विनि क्षमोपेते नातिकार्कश्यमाचरेत् ।

अतिनिर्मथनादग्निश्चन्दनादपि जायते ॥ ११९ ॥
 

1400
 

किमप्यसाध्यं महतां सिद्धिमेति लघीयसाम् ।

प्रदीपो भूमिगेहान्तर्ध्वान्तं हन्ति न भानुमान् ॥ १२० ॥
 

1401
 

अराव प्युचितं कार्यमातिथ्यं गृहमागते ।
 

छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः ॥ १२१ ॥
 

1402
 

हन्तुं मेषोपसरति मृगेन्द्र: संकुचत्यपि ।

बुद्धिमन्तः सहन्ते तन्निधाय हृदि किंचन ॥ १२२ ॥
 

1403
 

व्रजन्ति ते मूढधियः पराभवं

भवन्ति मायाविषु ये न मायिनः ।

प्रविश्य हि प्रान्त शाघ्नन्ति शठास्तथाविधा-

नसंवृताङ्गान्त्रिनिशिता इवेषवः ॥ १२३ ॥
 

1404
 

कोहं कोकौ देशकालीलौ समविषमगुणा: केरयः के सहायाः

का शक्तिः कोभ्युपायः फलमिह च कियत्कीदृशी दैवसंपत् ।