This page has been fully proofread once and needs a second look.

राजनीतिः
 

1388
 

अतितेजस्त्र्व्यपि राजा पानासक्तो न साधयत्यर्थान् ।

तृणमपि दग्धुं शक्तो न वाडवाग्भिःनिः पिबन्नर्निशम् ॥ १०८ ॥
 

1389
 

पानमक्षास्तथा नार्यो मृगया गीतवादिते ।
 

एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥ १०९ ॥
 

1390
 

नृपः कामासक्तो न गणयति कार्येयं न च हितं

यथेष्टं स्वच्छन्दं चरति किल मत्तो गज इव ।

ततो मानाध्मातः पतति तु यदा शोकगहने

तदामात्ये दोषान्क्षिपति न निजं वेत्त्यविनयम् ॥११०॥
 
२२३
 

1391
 

गुणवदगुणवडाद्वा कुर्वता कार्यजातं

परिणतिरवधार्या यत्नतः पण्डितेन ।

अतिरभसकृतानां कर्मणामा विपत्ते-

र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १११ ॥
 

1392
 

आयाच्चतुर्थभागेन व्ययकर्म प्रवर्तयेत् ।
 

प्रभूततैलदीपो हि चिरं भद्राणि पश्यति ॥ ११२ ॥
 

1393
 

अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा ।
 

भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥११३ ॥
 

1394
 

कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् ।
 

प्रसादयति लोकं यस्तं लोकोनुप्रसीदति ॥ ११४ ॥
 

1395
 

संभोजनं संकथनं संप्रभोश्नोथ समागमः ।
 
शा

ज्ञा
तिभिः सह कार्याणि न विरोध: कदाचन ॥ ११५ ॥