This page has not been fully proofread.

राजनीतिः
 
1388
 
अतितेजस्त्र्यपि राजा पानासक्तो न साधयत्यर्थान् ।
तृणमपि दग्धुं शक्तो न वाडवाग्भिः पिबन्नर्निशम् ॥ १०८ ॥
 
1389
 
पानमक्षास्तथा नार्यो मृगया गीतवादिते ।
 
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥ १०९ ॥
 
1390
 
नृपः कामासक्तो न गणयति कार्येन च हितं
यथेष्टं स्वच्छन्दं चरति किल मत्तो गज इव ।
ततो मानाध्मातः पतति तु यदा शोकगहने
तदामात्ये दोषान्क्षिपति न निजं वेयविनयम् ॥११०॥
 
२२३
 
1391
 
गुणवदगुणवडा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामा विपत्ते-
र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १११ ॥
 
1392
 
आयाच्चतुर्थभागेन व्ययकर्म प्रवर्तयेत् ।
 
प्रभूततैलदीपो हि चिरं भद्राणि पश्यति ॥ ११२ ॥
 
1393
 
अर्थानामर्जनं कार्य वर्धनं रक्षणं तथा ।
 
भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥११३ ॥
 
1394
 
कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् ।
 
प्रसादयति लोकं यस्तं लोकोनुप्रसीदति ॥ ११४ ॥
 
1395
 
संभोजनं संकथनं संप्रभोथ समागमः ।
 
शातिभिः सह कार्याणि न विरोध: कदाचन ॥ ११५ ॥