This page has been fully proofread once and needs a second look.

२२२
 
शार्ङ्गधरपद्धतिः
 

1380
 

अत्यासन्ना विनाशाय दूरतश्चाफलप्रदाः ।

मध्यभावेन सेव्यन्ते राजा वह्निर्गुरुस्त्रियः ॥ १०० ॥
 
1381
 

1381
आसन्नमेव नृपतिर्भजते मनुष्यं

विद्याविहीनमकुलीन मसंगतं वा ।

प्रायेण भूमिपतयः प्रमदा लताश्च
 

यः पार्श्वतो भवति तं परिवेष्टयन्ति ॥ १०१ ॥
 

1382
 

यस्मिन्नैवाधिकं चक्षुरारोपयति पार्थिवः ।
 

कुलीनो वाकुलीनो वा स श्रियो भाजनं भवेत् ॥ १०२ ॥
 
1383
 

1383
धवलान्यातपत्राणि वाजिनश्च मनोरमाः ।

सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतीतौ ॥ १०३ ॥
 

1384
 

राजमातारतरि देव्यां च कुमारे मुख्यमन्त्रिारिणि ।

पुरोहिते प्रतीहारे वर्तितत्र्व्यं नृपे यथा ॥ १०४ ॥
 

1385
 

द्विजा अपि न गच्छन्ति तां गतिं नैव योगिनः ।

स्वाम्यर्थे संत्यजन्प्राणान्यां गतिं याति सेवकः ॥ १०५ ॥
 

1386
 

राजा तुष्टोपि भृत्यानां मानमात्रं प्रयच्छति ।

ते तु संमानिता ह्येनं प्रागैणैरप्युपकुर्वते ॥ १०६ ॥
 

1387
 

सारासार परिच्छेसात्ता स्वामी मृभृत्यस्य दुर्लभः ।

अनुकूलः शुचिर्दक्षः प्रमोभोर्मृत्योपि दुर्लभः ॥ १०७ ॥