This page has been fully proofread once and needs a second look.

राजनीतिः
 
1371
 

1371
विवेकिनि भूपाले नश्यन्ति गुणिनां गुणाः ।
 

प्रवासरसिके कान्ते यथा साध्व्याः स्तनोन्नतिः ॥ १ ॥
 

1372
 

किंशुके किं शुकः कुर्यात्फलितेपि बुभुक्षितः ।

अदातरि समृद्धेपि किं कुर्युरुपजीविनः ॥ ९२ ॥
 
२२१
 
1373
 

1373
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् ।

स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ ९३ ॥
 

1374
 

वरं वनं वरं भैक्ष्यं वरं भारोपजीवनम् ।

पुंसां विवेकमुक्तानां सेवया न धनार्जनम् ॥ ४ ॥
 

1375
 

जीवन्तोपि मृताः पञ्च व्यासेन परिकीर्तिताः ।

दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ ९५ ॥
 

1376
 

न कश्चिञ्च्चण्डकोपानामात्मीयो नाम भूभुजाम् ।

होतारमपि जुह्वन्तं दहत्येव हि पावकः ॥ ९६ ॥
 
1377
 

1377
गृध्राकारोपि सेव्यः स्याङ्कंद्धंसाकारैः सभासदैः ।

हंसाकारोपि संत्याज्यो गृध्राकारैः सभासदैः ॥ ९७ ॥
 

1378
 

चक्रं सेव्यं नृपः सेव्यो मा नृपश्चक्रवर्जितः ।

पश्य चक्रस्य माहात्म्यं मृत्पिण्डः पात्रतां गतः ॥ ९८ ॥
 

1379
 

गन्तव्यं राजकुलं द्रष्टव्या राजपूजिता लोकाः [

यद्यपि न भवन्त्यर्थास्तथाप्यनर्था विलीयन्ते ॥ ९९ ॥