This page has not been fully proofread.

राजनीतिः
 
1371
 
भविवेकिनि भूपाले नश्यन्ति गुणिनां गुणाः ।
 
प्रवासरसिके कान्ते यथा साध्व्याः स्तनोन्नतिः ॥ ११ ॥
 
1372
 
किंशुके किं शुकः कुर्यात्फलितेपि बुभुक्षितः ।
अदातरि समृद्धेपि किं कुर्युरुपजीविनः ॥ ९२ ॥
 
२२१
 
1373
 
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् ।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ ९३ ॥
 
1374
 
वरं वनं वरं भैक्ष्यं वरं भारोपजीवनम् ।
पुंसां विवेकमुक्तानां सेवया न धनार्जनम् ॥ १४ ॥
 
1375
 
जीवन्तोपि मृताः पञ्च व्यासेन परिकीर्तिताः ।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ ९५ ॥
 
1376
 
न कश्चिञ्चण्डकोपानामात्मीयो नाम भूभुजाम् ।
होतारमपि जुहन्तं दहत्येव हि पावकः ॥ ९६ ॥
 
1377
 
गृध्राकारोपि सेव्यः स्याङ्कंसाकारैः सभासदैः ।
हंसाकारोपि संत्याज्यो गृध्राकारैः सभासदैः ॥ ९७ ॥
 
1378
 
चक्र सेव्यं नृपः सेव्यो मा नृपश्चक्रवर्जितः ।
पश्य चक्रस्य माहात्म्यं मृत्पिण्डः पात्रतां गतः ॥ ९८ ॥
 
1379
 
गन्तव्यं राजकुलं द्रष्टव्या राजपूजिता लोकाः [
यद्यपि न भवन्त्यर्थास्तथाप्यनर्था विलीयन्ते ॥ ९९ ॥