This page has been fully proofread once and needs a second look.

२२०
 
शार्ङ्गधरपद्धतिः
 

1382
 

दुर्गेगं बहुविषंधं ज्ञेयं पर्वतस्य जलस्य च ।
 

प्राकारस्य वनस्यापि भूमेरपि भवेत्क्वचित् ॥ ८२ ॥
 
1363
 

1363
न गजानां सहस्रेण न लक्षेण च वाजिनाम् ।

तथा सिद्ध्यन्ति कार्याणि यथा दुर्गप्रभावतः ॥ ८३ ॥
 

1364
 

विषहीनो यथा नागो मदहीनो यथा गजः ।

सर्वेषां वश्यतां याति दुर्गहीनस्तथा नृपः ॥ ८४ ॥
 

1365
 

शतमेकोपि संधत्ते प्राकारस्थो धनुर्धरः ।

तस्माद्दुर्गेगं प्रशंसन्ति नीतिशास्त्रविदो जनाः ॥ ८५ ॥
 
1366
 

1366
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः [

नियोजयेद्यथावत्तांस्त्रिविधेष्वपि कर्मसु ॥ ८६ ॥
 

1367
 

तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् ।

अर्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते ॥ ८७ ॥
 

1368
 

निर्विशेषं यदा राजा समं भृत्येषु तिष्ठति ।

तत्रोद्यमसमर्थानामुत्साह: परिहीयते ॥८८ ॥
 

1369
 

प्रसादो निष्फलो यस्य क्रोधो यस्य निरर्थकः ।

न तं भर्तारमिच्छन्ति वृद्धं पतिमिवाङ्गनाः ॥ ८९ ॥
 

1370
 

त्यजेत्स्वामिनमत्युग्रमत्युमाग्रात्कृपणं त्यजेत् ।

कृपणादविशेषशंज्ञं तस्माच्च कृतनाशनम् ॥ ९० ॥