शार्ङ्गधरपद्धतिः /234
This page has not been fully proofread.
राजनीतिः
इति महति विरोधे वर्तमाने समाने
नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ ७३ ॥
1354
षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं न गच्छति ॥ ७४ ॥
1355
एकं हन्यान वा हन्यादिषुर्मुक्तो धनुष्मता । ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्ति राष्ट्रं सराजकम् ॥ ७५ ॥
1356
न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न च पत्तिभिः ।
कार्य संसिद्धिमभ्येति यथा बुद्धया प्रसाधितम् ॥ ७६ ॥
1357
दुर्योधनः समर्थोपि दुर्मन्त्री प्रलयं गतः ।
राज्य मेकश्चकारोचैः सुमन्त्री चन्द्रगुप्तकः ॥ ७७ ॥
२१९
1358
अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः ।
यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥ ७८ ॥
1359
पृष्टो ब्रूते न सत्यं तं परिणामे सुखावहम् ।
मन्त्री चेत्प्रियवक्ता स्यात्केवलं स रिपुः स्मृतः ॥ ७९ ॥
1360
सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य च पथ्यम्य वक्ता श्रोता च दुर्लभः ॥ ८० ॥
1361
दुर्गाणि राज्ञा कार्याणि सजलानि दृढानि च ।
द्रव्यमन्त्रं च तेष्वेव स्थापनीयं प्रयत्नतः ॥ ८१ ॥