This page has been fully proofread once and needs a second look.

२१८
 
शार्ङ्गधरपद्धतिः
 

 
नासौ धर्मो यत्र न चास्ति सत्यं
 

न तत्सत्यं यच्छलेनानुविद्धम् ॥ ६४ ॥
 

1345
 

सभा वा प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।

अनुवन्विब्रुवन्वापि नरो भवति किल्विबिषी ॥ ६५ ॥
 

1346
 

तस्मात्सभ्यः सभां गत्वा रागद्वेषविवर्जितः ।

वचस्तथाविधं ब्रूयाद्यथा न नरकं व्रजेत् ॥ ६६ ॥
 

1347
 

माता पिता गुरुर्भ्राता भार्या पुत्रः पुरोहितः ।

नादण्ड्यो नाम राज्ञोस्ति स्त्रधर्मे यो न तिष्ठति ॥ ६७ ॥
 

1348
 

अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगवान् ।

क्रियते व्यङ्गता ह्येषु ततो दोषैर्न लिप्यते ॥ ६८ ॥
 

1349
 

न तु हन्यान्महीपालो दूतं कस्यचिदापदि ।

दूतहन्ता तु नरकमाविशेत्सचित्रैः सह ॥ ६९ ॥
 

1350
 

विशोधय महीपाल मन्त्रिशालामशेषतः ।

अयुक्तो नार्हति स्थातुमस्यां मन्त्ररहस्यवित् ॥ ७० ॥
 

1351
 

मन्त्रतन्त्रार्पित प्रीतिर्देशकालोचितस्थितिः ।
 

यश्च राज्ञि भवेद्रक्तः सोमात्यः पृथिवीपतेः ॥ ७१ ॥
 

1352
 

अन्तःसारैरकुटिलैः मुसुस्निग्धैिःधैः सुपरीक्षितैः ।

मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ ७२ ॥
 

1353
 

नरपतिहितकर्ता द्वेन्ष्यतां याति लोके

जनपदहितकर्ता त्यज्यते पार्थिवेन्द्रैः ।