This page has not been fully proofread.

15
 
राजनीतिः
 
1336
 
मेधावी वाक्पटुर्धीरो लघुहस्तो जितेन्द्रियः ।
परशास्त्रपरिज्ञाता एष लेखक उच्यते ॥ ५६ ॥
 
1337
 
इङ्गिताकारतत्त्वज्ञो बलवान्प्रियदर्शनः ।
 
समयज्ञः स्वामिभक्तः प्रतीहारः स उच्यते ॥ ५७
 
1338
 
शूरोर्थशास्त्रनिपुणः कृतशस्त्रकर्मा
संग्राम के लिचतुरश्चतुरङ्गयुक्तः ।
भर्तुर्निदेशवशगोभिमतः स्वतन्त्रे
सेना पतिर्नर पतेर्विजयागमाय ॥ ५८ ॥
 
1339
 
काणाः कुब्जाश्च षण्ढाश्च तथा वृद्धाश्च पङ्गवः ।
एते चान्तः पुरे नित्यं नियोक्तव्याः क्षमाभृता ॥ ५९ ॥
 
1340
 
पक्कानमिव राजेन्द्र सर्वसाधारणाः स्त्रियः ।
 
परोक्षे च समक्षे च न तासां विश्वसेत्सुधीः ॥ ६० ॥
 
1341
 
सूक्ष्मेभ्योपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या हि सर्वदा ।
इयोर्ह कुलयोः शोकमावहेयुररक्षिताः ॥ ६१ ॥
 
२१७
 
1342
 
महिष्या हृष्टया भाव्यं गृहकार्येषु दक्षया ।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ६२ ॥
 
1343
 
धर्मशास्त्रार्थकुशलाः कुलीना: सत्यवादिनः ।
समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥ ६३ ॥
 
1344
 
न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम् ।