This page has been fully proofread once and needs a second look.

२१६/
 
शर्ङ्गधरपद्धतिः
 

1327
 

ताडितोपि दुरुक्तोपि दण्डितोषिपि महीभुजा ।

न चिन्तयति यः पापं स भृत्यो
 
1328
 
र्हो महीभुजाम् ॥ ४७ ॥
 

1328
योनाहूतः समभ्येति द्वारे
 
तिष्ठति सर्वदा ।
 

पृष्टः सत्यं मितं ब्रूते स भृत्योर्हो महीभुजाम् ॥ ४८ ॥
 

1329
 

सालसं मुखरं क्रूरं स्तब्धं व्यसनिनं शम् ।

असंतुष्टमभक्तं च त्यजेद्धृभृत्यं नराधिपः ॥ ४९ ॥
 

1330
 

रिक्ताः कर्मणि पटवस्तृप्तास्त्वलसा भवन्ति ये भृत्याः ।

तेषां जलौकसामिव पूर्णानां रिक्तता कार्या ॥ ५० ॥
 
1331
 

1331
क्रूरं व्यसनिनं लुब्धमप्रगल्भमथाकुलम् ।

मूर्खमन्यायकर्तारं नाधिपत्ये नियोजयेत् ॥ ५१ ॥
 

1332
 

नियोगिभिर्विना राज्यं नास्ति भूपे हि केवलम् ।

तस्मादमी विधातव्या रक्षितव्याः प्रयत्नतः ॥ ५२ ॥
 
1333
 

1333
वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः ।
 

आशीर्वादपरो नित्यमेष राज्ञः पुरोहितः ॥ ५३ ॥
 

 

1334
 

क्रमागतो हितमतिः सर्वभावपरीक्षकः ।
 

धीरो यथोक्तवादी च दूत एवंविधो मतः ॥ ५४ ॥
 

1335
 

प्रवीणो वाक्पटुर्धीमान्स्वामिभक्तश्च नित्यशः ।

अलुब्धः सत्यवादी च भाण्डागारिक इष्यते ॥ ५५ ॥