This page has been fully proofread once and needs a second look.

राजनीतिः
 

1318
 

गतश्रीर्गणकान्द्वेष्टि गतायुश्च चिकित्सकान् !

गतश्रीश्च गतायुश्च ब्राह्मणान्द्वेष्टि भारत ॥ ३८ ॥
 

1319
 

बुद्धौ कलुषभूतायां विनाशे समुपस्थिते ।

अनयो नयसंकाशो हृदयान्नापसर्पति ॥ ३९ ॥
 

1320
 

कालः खड्गमुद्यम्य शिरः कृन्तति कस्यचित् ।

कालस्य बल मेतावद्विपरीतार्थदर्शनम् ॥ ४० ॥
 
1321
 

1321
जानन्नपि नरो दैवात्प्रकरोति विगर्हितम् ।
 

न कर्म कस्यचिल्लोके गर्हितं रोचते कृतम् ॥ ४१ ॥ .
 
1322
 

1322
मा तात संपदामग्रमारूढोस्मीति विश्वसीः ।

दूरारूढ परिभ्रंश विनिपातो हिंहि दारुणः ॥ ४२ ॥
 
1323
 

1323
कितवा यं प्रशंसन्ति यं प्रशंसन्ति चारणाः ।

यं प्रशंसन्ति बन्धक्यः स पार्थ पुरुषाधमः ॥ ४३ ॥

 

1324
 

राजानो यं प्रशंसन्ति यं प्रशंसन्ति च द्विजाः ।
सां

सा
धवो यं प्रशंसन्ति स पार्थ पुरुषोत्तमः ॥ ४४ ॥
 
२१५
 

1325
 

प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः ।

गृहीतच्छत्रहस्तस्य वारिधारा इवारयः ॥ ४५ ॥
 

1326
 

बहूनामध्प्यसाराणां समवायो हि दारुणः ।

तृणैर्विधीयते रज्जुर्बध्यन्ते दन्तिनश्च तैः ॥ ४६ ॥