This page has not been fully proofread.

राजनीतिः
 
1318
 
गतश्रीर्गणकान्द्वेष्टि गतायुश्च चिकित्सकान् !
गतश्रीश्च गतायुश्च ब्राह्मणान्द्वेष्टि भारत ॥ ३८ ॥
 
1319
 
बुद्धौ कलुषभूतायां विनाशे समुपस्थिते ।
अनयो नयसंकाशो हृदयान्नापसर्पति ॥ ३९ ॥
 
1320
 
म कालः खड्गमुद्यम्य शिरः कृन्तति कस्यचित् ।
कालस्य बल मेतावद्विपरीतार्थदर्शनम् ॥ ४० ॥
 
1321
 
जानन्नपि नरो दैवात्मकरोति विगर्हितम् ।
 
न कर्म कस्यचिल्लोके गर्हितं रोचते कृतम् ॥ ४१ ॥ .
 
1322
 
मा तात संपदामग्रमारूढोस्मीति विश्वसीः ।
दूरारूढ परिभ्रंश विनिपातो हिं दारुणः ॥ ४२ ॥
 
1323
 
कितवा यं प्रशंसन्ति यं प्रशंसन्ति चारणाः ।
यं प्रशंसन्ति बन्धक्यः स पार्थ पुरुषाधमः ॥ ४३ ॥

 
1324
 
राजानो यं प्रशंसन्ति यं प्रशंसन्ति च द्विजाः ।
सांधवो यं प्रशंसन्ति स पार्थ पुरुषोत्तमः ॥ ४४ ॥
 
२१५
 
1325
 
प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः ।
गृहीतच्छत्रहस्तस्य वारिधारा इवारयः ॥ ४५ ॥
 
1326
 
बहूनामध्यसाराणां समवायो हि दारुणः ।
तृणैर्विधीयते रज्जुर्बध्यन्ते दन्तिनश्च तैः ॥ ४६ ॥