This page has been fully proofread once and needs a second look.

८ शार्ङ्गधरपद्धतिः

अथ सरस्वती ।

59

करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः ।
पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ ३ ।
सुबन्धोः ।

अथ शिवः ।

60

नमस्तुङ्गशिरश्रुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भ मूलस्तम्भाय शंभवे ॥ ४ ॥
बाणभट्टस्य ।

61
 
मौनादस्तमितैव चाटुभणितिः स्रस्तैकहस्ताद्गतं
दूरेप्यञ्जलिबन्धनं प्रणमनं स्तब्धार्धमूर्ध्नः कुतः ।
इत्थं संघटितैकविग्रहतया व्ययोग्रो गिरिग्रामणी-
र्जायां जातरुपं जयत्यनुनयन्देवस्त्रिलोकीगुरुः ॥ ५॥
कस्यापि ।

62

वामाङ्गीकृतवामाङ्गि कुण्डलीकृतकुण्डलि ।
आविरस्तु पुरो वस्तु भूतिभूत्यम्राम्बरम् ॥ ६ ॥
सार्वभौमस्य ।

63

पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता ।
तथापि भव ते मूर्तिरपवर्गानुसारिणी ॥ ७ ॥
देवेश्वरस्य ।

64

उदरद्वयभरणभयादर्धाङ्गाहितदारः ।
यदि नैवं तस्यैकसुतः कथमद्यापि कुमारः ॥ ८ ॥
सार्वभौमस्य ।

65

संध्यानतौ नरपुरंघ्रितनोः सरोष-
मुत्सारिते गिरिजया निजपाणिपद्मे ।