This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
अथ सरस्वती ।
 
59
 
कर बदर सदृशमखिलं भुवनतलं यत्प्रसादतः कत्रयः ।
पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ ३ ।
 
सुबन्धोः ।
 
अथ शिवः ।
 
60
 
नमस्तुङ्ग शिर श्रुम्बिवन्द्रचागरचारवे ।
त्रैलोक्यनगरारम्भ मूलस्तम्भाय शंभवे ॥ ४ ॥
 
बाण महस्य ।
 
61
 
मौनादस्तमितैव चाटुभणितिः स्रस्तैकहस्ताद्गतं
दूरेप्यञ्जलिबन्धन प्रणमनं स्तब्धार्धमूर्भः कुतः ।
इत्थं संघटितैकविग्रहतया व्ययो गिरिग्रामणी-
जीयां जातरुपं जयत्यनुनयन्देवत्रिलोकीगुरुः ॥ ६॥
 
कस्यापि ।
 
62
 
चामाङ्गीकृतवामाङ्गि कुण्डलीकृतकुण्डलि ।
आविरस्तु पुरो वस्तु भूतिभूत्यम्वराम्बरम् ॥ ६ ॥
सार्वभौमस्य ।
 
63
 
पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता ।
 
तथापि भव ते मूर्तिरपवर्गानुसारिणी ॥ ७ ॥
 
64
 
देवेश्वरस्य ।
 
उदरद्वयभरणभयादर्धाङ्गाहितदारः ।
 
यदि नैवं तस्यैकसुतः कथमद्यापि कुमारः ॥ ८ ॥
सार्वभौमस्य ।
 
65
 
संध्यानतौ नरपुरंधितनोः सरोष-
मुत्सारिते गिरिजया निजपाणि ।