This page has been fully proofread once and needs a second look.

२१४
 
शार्ङ्गधरपद्धतिः
 

1309
 

मा तात साहसं कार्षीर्विभवैर्गर्वमागतः ।

स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥ २९ ॥
 

1310
 

मा त्वं तात बले स्थित्वा वाबाधिष्टाठा दुर्बलं जनम् ।

नहि दुर्बलदग्धानां कुले किंचित्प्ररोहति ॥ ३० ॥
 
1311
 

1311
यानि मिथ्याभिभूतानां पतन्त्यभूश्रूणि रोदता ।

तानि संतापकान्घ्नन्ति सपुत्रपशुवाबान्धवान् ॥ ३१ ॥
 

1312
 

ब्राह्मणेषु च ये झुशूराः स्त्रीषु ज्ञातिकुलेषु च ।

वृन्तादिव फलं पकंक्वं धृतराष्ट्र पतन्ति ते ॥ ३२ ॥
 
1313
 

1313
देवब्रह्मस्वपुष्टानि सैन्यानि पृथिवीपतेः ।

युद्धकाले विशीर्यन्ते सैकताः सेतवो यथा ॥ ३३ ॥
 

1314
 

प्रणीतश्चाप्रणीतश्च यथामिग्निर्दैवतं महत् ।
 

एवं विज्ञाद्वानविद्वांश्च ब्राह्मणो दैवतं महत् ॥ ३४ ॥
 

1315
 

अदैवं दैवतं कुर्युर्देदैवतं चाप्यदैवतम् ।
 

लोकपालान्सृजेयुश्च लोकानन्यांश्च कोपिताः ॥ ३५ ॥
 

1316
 

युगे युगे च ये धर्मास्तेषु धर्मेषु ये द्विजाः ।

तेषां निन्दा न कर्तव्या युगरूपा हि वेवै द्विजाः ॥ ३६ ॥
 

1317
 

आक्रम्य यहिद्द्विजैर्मुभुक्तं परिक्षीणैश्च बान्धवैः ।

गोभिश्च नृपशार्दूल राजसूयाद्विशिष्यते ॥ ३७ ॥