शार्ङ्गधरपद्धतिः /229
This page has not been fully proofread.
२१४
शार्ङ्गधरपद्धतिः
1309
मा तात साहस कार्षीर्विभवैर्गर्वमागतः ।
स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥ २९ ॥
1310
मा त्वं तात बले स्थित्वा वाधिष्टा दुर्बलं जनम् ।
नहि दुर्बलदग्धानां कुले किंचित्प्ररोहति ॥ ३० ॥
1311
यानि मिथ्याभिभूतानां पतन्त्यभूणि रोदता ।
तानि संतापकान्घ्नन्ति सपुत्रपशुवान्धवान् ॥ ३१ ॥
1312
ब्राह्मणेषु च ये झुराः स्त्रीषु ज्ञातिकुलेषु च ।
वृन्तादिव फलं पकं धृतराष्ट्र पतन्ति ते ॥ ३२ ॥
1313
देवब्रह्मस्वपुष्टानि सैन्यानि पृथिवीपतेः ।
युद्धकाले विशीर्यन्ते सैकताः सेतवो यथा ॥ ३३ ॥
1314
प्रणीतश्चाप्रणीतश्च यथामिदैवतं महत् ।
एवं विज्ञानविद्वांश्च ब्राह्मणो दैवतं महत् ॥ ३४ ॥
1315
अदैवं दैवतं कुर्युर्देवतं चाप्यदैवतम् ।
लोकपालान्सृजेयुश्च लोकानन्यांश्च कोपिताः ॥ ३५ ॥
1316
युगे युगे च ये धर्मास्तेषु धर्मेषु ये द्विजाः ।
तेषां निन्दा न कर्तव्या युगरूपा हि वे द्विजाः ॥ ३६ ॥
1317
आक्रम्य यहिजैर्मुक्त परिक्षीणैश्च बान्धवैः ।
गोभिश्च नृपशार्दूल राजसूयाद्विशिष्यते ॥ ३७ ॥