This page has been fully proofread once and needs a second look.

राजनीतिः
 
1300
 

1300
सामैव हि प्रयोक्तव्यमादौ कार्य विज्ञान ।
 
यं विजानतां ।
सामसिद्धानि कार्याणि विक्रियां यान्ति न क्वचित् ॥ २० ॥
 
1301
 

1301
न विश्वसेदमित्रस्य मित्रस्यापि न विश्वसेत् ।

विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ २१ ॥
 

1302
 

शपथैः संधितस्यापि न विश्वासं व्रजेद्रिपोः ।

राज्यलोभोद्यतो वृत्रः शक्रेण शपथैर्हतः ॥ २२ ॥
 
1303
 

1303
उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।
 

पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥ २३ ॥
 

1304
 

नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पोप्यवज्ञया ।
 

वह्निरल्पोपि संवृद्धः कुरुते भस्मसाद्वनम् ॥ २४ ॥
 

1305
 

कौर्मं संकोचमास्थाय प्रहारानपि मर्येत् ।

काले काले च मतिमानुत्तिष्ठेत्कृष्णसर्पवत् ॥ २५ ॥
 

1306
 

तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।

आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥ २६ ॥
 

1307
 

परोपि हितवान्बन्धुर्बन्धुरप्यहितः परः ।

अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ २७ ॥
 
२१३
 

1308
 

यच्छक्यं प्ग्रसितुं ग्रासं ग्रस्तं परिणमेच्च यत् ।

हितं च परिणामे स्यात्तदाद्यं भूतिमिच्छता ॥ २८ ॥