This page has not been fully proofread.

राजनीतिः
 
1300
 
सामैव हि प्रयोक्तव्यमादौ कार्य विज्ञान ।
 
सामसिद्धानि कार्याणि विक्रियां यान्ति न क्वचित् ॥ २० ॥
 
1301
 
न विश्वसेदमित्रस्य मित्रस्यापि न विश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ २१ ॥
 
1302
 
शपथैः संधितस्यापि न विश्वास व्रजेद्रिपोः ।
राज्यलोभोद्यतो वृत्रः शक्रेण शपथैर्हतः ॥ २२ ॥
 
1303
 
उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।
 
पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥ २३ ॥
 
1304
 
नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पोप्यवज्ञया ।
 
वह्निरल्पोपि संवृद्धः कुरुते भस्मसाइनम् ॥ २४ ॥
 
1305
 
कौर्म संकोचमास्थाय महारानपि मर्पयेत् ।
काले काले च मतिमानुत्तिष्ठेत्कृष्णसर्पवत् ॥ २५ ॥
 
1306
 
तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥ २६ ॥
 
1307
 
परोपि हितवान्बन्धुर्बन्धुरप्यहितः परः ।
अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ २७ ॥
 
२१३
 
1308
 
यच्छक्यं प्रसितुं ग्रासं ग्रस्तं परिणमेच्च यत् ।
हितं च परिणामे स्यात्तदाद्यं भूतिमिच्छता ॥ २८ ॥