This page has been fully proofread once and needs a second look.

राजनीतिः

1283
 

पर्जन्य इव भूतानामाधारः पृथिवीपतिः ।

विकलेपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ ३ ॥
 

1284
 

प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् ।

वर्धनाद्रक्षणं प्श्रेयस्तन्नाशेन्यत्सदव्प्यसत् ॥ ४ ॥
 

1285
 
भा

त्मानं प्रथमं राजा विनयेनोपपादयेत् ।

ततोमात्यांस्ततो भृत्यांस्ततः पुत्रांस्तः प्रजाः ॥ ५ ॥
 

1286
 

राज्ञि धर्मिणि धर्मिःमिष्ठाः पापे पापा: समे समाः ।

लोकास्तमनुवर्तन्ते यथा राजा तथा प्रजाः ॥ ६ ॥
 

1287
 

नृपाणां च नराणां च केवलं तुल्यमूर्तिता ।

आधिक्यं तु क्षमा धैर्यमाज्ञा दानं पराक्रमः ॥ ७॥
 
1288
 

1288
सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।

विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ॥ ८ ॥
 
12

12
89
 

प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः ।

अजागलस्तनस्येव तस्य जन्म निरर्थकम् । । ९ ॥
 

1290
 

अजामिव प्रजां हन्याद्यो मोहात्पृथिवीपतिः ।

तस्यैका जायते तृप्तिर्द्वितीया न कथंचन ॥ १० ॥
 

1291
 

प्रजापीडन संतापात्समुद्भूतो हुताशनः ।

राज्ञः श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते ॥ ११ ॥
 
२११