This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
प्रत्यक्षेपि भवद्विरोधिनृपतेरन्तःपुराणामहो
 
धिकष्टं विटपैर्विटैरिव वने किं नाम नो चेष्टितम् ॥ ११ ॥
 
श्रीधनदेवानाम् ।
 
२१०
 
1278
 
वेरिणो वीर पलायितस्य
 
प्रकाशयनक्तमरण्यमार्गम् ।
कृशानुर। सीदभिनन्दनीय
 
स्तुङ्गेषु लमो निजमन्दिरेषु ॥ १२ ॥
 
1279
 
राजन्द्विषस्ते भयविद्रुतस्य
 
भालत्वचं कण्टकिनो वनान्ताः ।
 
अद्यापि किं वानुभविष्यतीति
व्यपाटयन्द्रष्टुमिवाक्षराणि ॥ १३ ॥
 
1280
 
स्नाताः प्रावृषि मेघवान्तसलिलैः संरूढदूर्वाङ्कुर-
व्याजेनात्तकुशाः प्रणालसलिलैर्दच्या निवापाञ्जलीन्
प्रासादास्तव विद्विषां परिपतत्कुस्थपिण्डच्छला-
कुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाम् ॥ १४ ।
 
केषामध्येते ।
 
अथ राजनीतिः ॥ ७५ ॥
 
1281
 
राजास्य जगतो हेतुर्वृद्धेर्वृद्धाभिसंमतः ।
नयनानन्दजननः शशाङ्क इव वारिधेः ॥ १ ॥
 
1282
 
धार्मिकं पालनपरं सम्यक्परपुरंजयम् ।
राजानमभिमन्यन्ते प्रजापतिमिव प्रजाः ॥ २ ॥