This page has not been fully proofread.

अरिपलायनम्
 
1272
 
तन्त्रीमुज्झितभूषणां कलगिरं रोमोद्गमं बिभ्रतीं
वेपन्त वाताधरां विवसनां सीत्कारमातन्वतीम् ।
दोय चण्डतुषारपातसमयामालिङ्गय कण्ठे भृशं
स्त्रां मूर्ति दयितामित्रातिरसिकां त्वद्विद्विषः शेरते ॥ ६ ॥
 
कस्यापि ।
 
1273
 
यातीतः पान्थ पन्था व्रजति ननु कथं स्थावरं वर्त्म मुग्धे
मार्ग पृच्छामि पृच्छ स्थितमिदमिह ते विस्मितं वीक्ष्य नेत्रे ।
अध्वानं ब्रूह्यपेतध्वनि भवति वचश्चित्रमुद्वाष्पनेत्रा
हस्यन्ते दावमूढाः पथि पथिकवटैस्त्वषां नाथ नार्यः ॥ ७॥
 
कस्यापि ।
 
1274
 
भूसंपर्कर जोनिपात मलिनाः स्वस्माद्गृहात्प्रच्युताः
सामान्यैरपि जन्तुभिः करतले निःशङ्कमालिङ्गिताः ।
 
संलमाः कचिदेकतामुपगताः कापि प्रबुद्धाः कचि-
त्सुप्ता: कापि च सारिवलतिगृह भ्रान्तास्तवारित्रियः ॥८॥
 
1275
 
सालकाननयुक्तापि सालकाननवाजता ।
हारावरुद्धकण्ठापि विहारारिवधूस्तव ॥ ९ ॥
 
-
 
1277
 
२०९
 
1276
 
आत्ते सीमन्तरत्ने मरकतनिचिते हेमताटङ्कपत्रे
लुप्तायां मेखलायां कनकमणितुला कोटियुग्मे गृहीते ॥
शोणं विम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
राजन्गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ॥ १० ॥
 
केषामण्येते ।
 
कर्षद्भिः सिचयाञ्चलान्यतिर सात्कुर्वाद्भरालिङ्गनं
गृह्णानैः कचमालिखद्भिरधरं विभ्रामयद्भिः करौ ।