This page has not been fully proofread.

२०८
 
शार्ङ्गधरपद्धतिः
 
अथारिपलायनम् ॥ ७४ ॥
 
1267
 
अधाक्षीनो लङ्कामयमयमुदन्वन्तमतर-
विशल्यां सौमित्रेरयमुपनिनायौषधित्रराम् ।
इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं
हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥ १ ॥
 
कस्यापि ।
 
1268
 
राजनाजसुता न पाठयति मां देव्योपि तूष्णीं स्थिताः
कुब्जे भोजय मां कुमार सचिवैर्नाद्यापि किं भुज्यते ।
इत्थं राजशुकस्तवारिभवने मुक्तोध्वगैः पञ्जरा
चित्रस्थानत्रलोक्य शून्यत्रलभा मेकैकमाभाषते ॥ २ ॥
 
कस्यापि ।
 
1269
 
कुरबक कराघातक्रीडा मुखेन वियुज्यसे
बकुलविटपिन्स्मर्तव्यं ते रसासवसेचनम् ।
चरणघटनाबन्ध्यो यास्यस्यशोक सशोकता-
मिति जनपुरत्यागे यस्य द्विषां जगदुः स्त्रियः ॥ ३ ।
 
रत्नाकरस्य ।
 
1270
 
कामन्त्यः क्षतकोमलाङ्गुलिगल: सदर्भाः स्थली:
पदि: पातितयावकैरिव गलद्वाप्पाम्बुधौताननाः ।
भीता भर्तकरावलम्बितकरास्त्वच्छत्रुनार्योधुना
दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥ ४ ॥
 
कस्यापि ।
 
1271
 
क्षणं कान्तारागप्रसरविलसन्मानसरति:
क्षण शालोत्सङ्गे द्विजकुलरवाकृष्टहृदयः ।
क्षणं पत्रध्वानश्रुतिपुलकितो यद्भयभरा-
इसन्प्राप्तोरण्ये रिपुरवनिपालस्थितिमिव ॥ ५॥
वैद्यमानुपण्डितस्य !