This page has been fully proofread once and needs a second look.

विशिष्टराजवर्णनम्
 

नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनासा
म्ना
सूर्येनन्तर्हितेस्मिन्कतिपयादेव यदिवसैर्वासरा द्वैतसृष्टिः ॥ १५ ॥
 

कस्यापि ।
 

1262
 

मुखे हारावाप्तिर्नयनयुगले कङ्कणभरो

नितम्बे पचात्त्राली सतिलकमभूत्पाणियुगलम् ।

अरण्ये श्रीकर्ण त्वदरियुवतीनां विधिवशा-

दपूर्वोयं भूषाविधिरहह जातः किमधुना ॥ १६ ॥
 

कस्यापि ।
 

1263
 

कीर्तिः कैतववीररुद्र भवतः स्वर्वाहिनीगाहिनी

दिक्पालानखिलान्परीत्य दधती पाण्योः प्रतापानलम् ।

सप्ताम्भोनिधिमण्डलान्येधिगता त्वय्येक पत्नीव्रत-

ख्यात्यै विष्णुपदं स्पृशत्यनुदिनं शेषस्य शीर्षण्यपि ॥१७॥
 

कस्यापि ।
 
२०७
 

1264
 

विन्ध्याद्रिः करिसाधने निरुपमो रत्नाकरः कोशभृ-

त्सौगन्धी मलयाचल: परिचराः सर्वेपि विद्याधराः ।

विश्वाशापरिपूरणं वितरणं देशोप्यहो दक्षिण:

पाण्ड्याखण्डल वीरपाण्ड्य भवतः किं किं न लोकोत्तरम् ॥१८॥
 

सुदर्शनकवेः ।
 

1265
 

तवाङ्गणे सुन्दर वीरपाण्ड्य
 

मतङ्गजाः शृङ्लिनो विभान्ति ।

आवासदानादरिभूपतीना-

माशान्तरौला इव सापराधाः ॥ १९ ॥
 

कस्यापि ।
 

1266
 

मुञ्चति मुञ्चति कोशं त्यजति त्यजति क्षमामाशु ।
 

अर्जुनदेवकृपाणे भजति च भजाते प्रकम्पमरिवर्गः ॥ २० ॥