This page has not been fully proofread.

विशिष्टराजवर्णनम्
 
नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगदेवनासा
सूर्येनन्तर्हिस्मिन्कतिपयादेव सैर्वासरा द्वैतसृष्टिः ॥ १५ ॥
 
कस्यापि ।
 
1262
 
मुखे हारावाप्तिर्नयनयुगले कङ्कणभरो
नितम्बे पचाली सतिलकमभूत्पाणियुगलम् ।
अरण्ये श्रीकर्ण त्वदरियुवतीनां विधिवशा-
दपूर्वोयं भूषाविधिरहह जातः किमधुना ॥ १६ ॥
 
कस्यापि ।
 
1263
 
कीर्तिः कैतववीररुद्र भवतः स्वर्वाहिनीगाहिनी
दिक्पालानखिलान्परीत्य दधती पाण्योः प्रतापानलम् ।
सप्ताम्भोनिधिमण्डलान्येधिगता त्वय्येक पत्नीव्रत-
ख्यात्यै विष्णुपदं स्पृशत्यनुदिनं शेषस्य शीर्षण्यपि ॥१७॥
 
कस्यापि ।
 
२०७
 
1264
 
विन्ध्याद्रिः करिसाधने निरुपमो रत्नाकरः कोशभृ-
त्सौगन्धी मलयाचल: परिचराः सर्वेपि विद्याधराः ।
विश्वाशापरिपूरणं वितरणं देशोप्यहो दक्षिण:
पाण्ड्याखण्डल वीरपाण्ड्य भवतः किं किं न लोकोत्तरम् ॥१८॥
 
सुदर्शनकवेः ।
 
1265
 
तवाङ्गणे सुन्दर वीरपाण्ड्य
 
मतङ्गजाः शृङ्गलिनो विभान्ति ।
आवासदानादरिभूपतीना-
माशान्तरौला इव सापराधाः ॥ १९ ॥
 
कस्यापि ।
 
1266
 
मुञ्चति मुञ्चति कोशं त्यजति त्यजति क्षमामाशु ।
 
अर्जुनदेवकृपाणे भजति च भजाते प्रकम्पमरिवर्गः ॥ २० ॥