This page has been fully proofread once and needs a second look.

२०६
 
धरपद्धतिः
 

 
अस्माभिः करदं व्यधायि हिमवद्विन्ध्यान्तरालं भुवः

शेषस्वीकरणाय मास्तु भवतामुद्योगशून्यं मनः ॥ १० ॥
 

एतौ नृगनृपतिपाषाणयज्ञयूपप्रशस्तेः ।
 

1257
 

मा चक्र चक्रिविरहज्वरकातरो भू:

संकोचमम्बुज न याहि न यामिनीयम् ।

हम्मीरभूपहयटापविदीर्णभूमि-

रेणूत्करैरयमकारि दिवान्धकारः ॥ ११ ॥
 

कस्यापि ।
 

1258
 

राजनान्त्राजमृगाङ्क शंकरकवे किं पत्रिकायामिदं

श्लोकः कस्य तवैष देव शृणुमः संपठ्यतां पठ्यते ।

एतासामरविन्दसुन्दरदृशां द्राक्चामरान्दोलना-

दुहेद्वेल्ल द्भुजवल्लिकङ्कणरणत्कार: क्षणं वार्यताम् ॥ १२ ॥
 

1259
 

अर्धं दानववैरिणा गिरिजयाप्यर्धं हरस्याहृतं

देवेव्यंत्थं जगतीतले स्मरहराभावे समुन्मीलति ।

गङ्गा सागरमम्बरं शशिकला शेषश्च पृथ्वीतलं

सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षा श्रिता ॥ १३ ॥

एतौ शंकरकवेः ।
 

1260
 

पृथ्वी श्रीमदनङ्गभीम महती तद्वेष्टनं वारिधिः

पीतोसौ कलशोद्भवेन मुनिना स व्योम्नि खद्योतवत् ।

तद्विष्णोर्दनुजाधिनाथजयिनः पूर्णं पदं नाभव-

द्
देवश्चेतसि वर्तते तव सदा त्वत्तो महान्नापरः ॥ १४ ॥

सार्वभौमस्य ।
 

1261
 

चक्रः पप्रच्छ पान्थं कथय मम सखे नास्ति स क्कावापि देशो
वस्तु

वस्तुं
नो यत्र रात्रिर्भवति भुवि खगायेति स प्रत्यवाच ।