This page has not been fully proofread.

२०६
 
धरपद्धतिः
 
अस्माभिः करदं व्यधायि हिमवविन्ध्यान्तरालं भुवः
शेषस्वीकरणाय मास्तु भवतामुयोगशून्यं मनः ॥ १० ॥
 
एतौ नृगनृपतिपाषाणयज्ञयूपप्रशस्तेः ।
 
1257
 
मा चक्र चक्रिविरहज्वरकातरो भू:
संकोचमम्बुज न याहि न यामिनीयम् ।
हम्मीरभूपहयटापविदीर्णभूमि-
रेणूत्करैरयमकारि दिवान्धकारः ॥ ११ ॥
 
कस्यापि ।
 
1258
 
राजनाजमृगाङ्क शंकरकवे किं पत्रिकायामिदं
श्लोकः कस्य तवैष देव शृणुमः संपठ्यतां पठ्यते ।
एतासामरविन्दसुन्दरदृशां द्राक्चामरान्दोलना-
दुहेल्ल जवल्लिकङ्कणरणत्कार: क्षणं वार्यताम् ॥ १२ ॥
 
1259
 
अर्ध दानववैरिणा गिरिजयाप्यर्थ हरस्याहृतं
देवेव्यं जगतीतले स्मरहराभावे समुन्मीलति ।
गङ्गा सागरमम्बरं शशिकला शेषश्च पृथ्वीतलं
सर्वज्ञत्वमधीश्वरत्वमगमत्वां मां च भिक्षा श्रिता ॥ १३ ॥
एतौ शंकरकवेः ।
 
1260
 
पृथ्वी श्रीमदनङ्गभीम महती तद्वेष्टनं वारिधिः
पीतोसौ कलशोद्भवेन मुनिना स व्योनि खद्योतवत् ।
तद्विष्णोईनुजाधिनाथजयिनः पूर्ण पदं नाभव-
देवश्चेतसि वर्तते तव सदा त्वत्तो महान्नापरः ॥ १४ ॥
सार्वभौमस्य ।
 
1261
 
चक्रः पप्रच्छ पान्थं कथय मम सखे नास्ति स क्कापि देशो
वस्तु नो यत्र रात्रिर्भवति भुवि खगायेति स प्रत्यवाच ।